तवकममकावेकवचने

4-3-3 तवकममकौ एकवचने प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् खञ् तस्मिन् अणि

Kashika

Up

index: 4.3.3 sutra: तवकममकावेकवचने


एकवचनपरयोर्युष्मदस्मदोः तवक ममक इत्येतावादेशौ भवतः यथासङ्ख्यं तस्मिन् खञि अणि च परतः। निमित्तयोस् तु यथासङ्ख्यं पूर्ववदेव न भवति। ननु च न लुमता अङ्गस्य 1.1.63 इति प्रत्ययलक्षणप्रतिषेधादेकवचनपरता युष्मदस्मदोर्न सम्भवति? वचनात् प्रत्ययलक्षणम् भविष्यति। अथ वा न एव इदं प्रत्ययलक्षणं, किं तर्ह्रन्वर्थग्रहणम्। एकवचने युष्मदसमादी एकस्य अर्थस्य वाचके तवकममकावादेशौ प्रतिपद्येते इति सूत्रार्थः। तावकीनः। मामकीनः। तावकः। मामकः। तस्मिन्नणि च इत्येव, त्वदीयः। मदियः।

Siddhanta Kaumudi

Up

index: 4.3.3 sutra: तवकममकावेकवचने


एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञ्यणि च । तावकीनः । तावकः । मामकीनः । मामकः । छे तु ॥

Laghu Siddhanta Kaumudi

Up

index: 4.3.3 sutra: तवकममकावेकवचने


एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञि अणि च। तावकीनः। तावकः। मामकीनः। मामकः। छे तु -

Balamanorama

Up

index: 4.3.3 sutra: तवकममकावेकवचने


तवकममकावेकवचने - तवकममकौ । 'एकवचने' इति युष्मदस्मदोः प्रकृत्योर्विशेषणम् । एकस्य वचनम्ुक्तिः-एकवचनम् । एकस्योक्तौ व्याप्रियमाणयोरिति लभ्यते । तदाह — एकार्थवाचिनोरिति । छे त्विति ।एकार्थवृत्तयोर्विशेषो वक्ष्यते॑ इति शेषः ।