तवकममकावेकवचने

4-3-3 तवकममकौ एकवचने प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् खञ् तस्मिन् अणि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

एकवचनपरयोर्युष्मदस्मदोस्तवक ममक इत्येतावादेशौ भवति यथासंख्यं तस्मिन् खञि अणि च परतः। निमित्तयोस्तु यथासंख्यं पूर्ववदेव न भवति। ननु च <<न लुमताङ्गस्य>> १.१.६३ इति प्रत्ययलक्षणप्रतिषेधादेकवचनपरता युष्मदस्मदोर्न संभवति ? वचनात् प्रत्ययलक्षणं भविष्यति। अथवा नैवेदं प्रत्ययग्रहणम्। किं तर्हि ? अन्वर्थग्रहणम्। एकवचने युष्मदस्मदी एकस्यार्थस्य वाचके तवकममकावादेशौ प्रतिपद्येते इति सूत्रार्थः। तावकीनः। मामकीनः। तावकः। मामकः। तस्मिन्नणि चेत्येव — त्वदीयः। मदीयः॥

Siddhanta Kaumudi

Up

एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञ्यणि च । तावकीनः । तावकः । मामकीनः । मामकः । छे तु ॥

Laghu Siddhanta Kaumudi

Up

एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञि अणि च। तावकीनः। तावकः। मामकीनः। मामकः। छे तु -

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तवकममकावेकवचने>> - तवकममकौ । 'एकवचने' इति युष्मदस्मदोः प्रकृत्योर्विशेषणम् । एकस्य वचनम्ुक्तिः-एकवचनम् । एकस्योक्तौ व्याप्रियमाणयोरिति लभ्यते । तदाह — एकार्थवाचिनोरिति । छे त्विति ।एकार्थवृत्तयोर्विशेषो वक्ष्यते॑ इति शेषः ।

Padamanjari

Up