नक्षत्रेभ्यो बहुलम्

4-3-37 नक्षत्रेभ्यः बहुलम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः लुक्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नक्षत्रेभ्य उत्तरस्य जातार्थे प्रत्ययस्य बहुलं लुग् भवति। रोहिणः, रौहिणः। मृगशिराः, मार्गशीर्षः॥

Siddhanta Kaumudi

Up

जातार्थप्रत्ययस्य बहुलं लुक् स्यात् । रोहिणः । रौहिणः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नक्षत्रेभ्यो बहुलम्>> - नक्षत्रेभ्यो बहुलं । रोहिण इति । रोहिण्यां जात इत्यर्थः । नक्षत्राऽणो लुकि आदिवृद्धिनिवृत्तौलुक्तद्धितलुकी॑ति स्त्रीप्रत्ययनिवृत्तिः । नच तथा सति तकारस्य नकारोऽपि निवर्तेतेति वाच्यं, न हि रोहितशब्दोऽयं वर्णविशेषवाचको येनवर्णादनुदात्ता॑दिति ङीपो निवृत्तौ तकारोऽपि निवर्तेत । किंतु रोहिणीशब्दोऽयमब्युत्पन्नो नक्षत्रविशेषे रूढः । 'रोहिणी नक्षत्रे' इति गौरादि पाठान्ङीष् । अत एवरोहिणी नक्षत्रं प्रजापतिर्देवते॑त्यादौ अन्तोदात्तत्वं श्रूयमाणं न विरुध्यते । अन्यथावर्णानां तणतिनितान्ताना॑मित्याद्युत्तत्वं स्यादित्यलम् ।

Padamanjari

Up