स्थानान्तगोशालखरशालाच्च

4-3-35 स्थानान्तगोशालखरशालात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः लुक्

Kashika

Up

index: 4.3.35 sutra: स्थानान्तगोशालखरशालाच्च


स्थानान्तात् प्रातिपदिकात् गोशालशब्दात् खरशालशब्दात् च जातार्थे प्रत्ययस्य लुग् भवति। गोस्थाने जातः गोस्थानः। अश्वस्थानः। गोशालः। खरशालः।

Siddhanta Kaumudi

Up

index: 4.3.35 sutra: स्थानान्तगोशालखरशालाच्च


एभ्यो जातार्थप्रत्ययस्य लुक् स्यात् । गोस्थानः । गोशालः । खरशालः । विभाषा सेना -<{SK828}> इति नपुंसकत्वे ह्रस्वत्वम् ॥

Balamanorama

Up

index: 4.3.35 sutra: स्थानान्तगोशालखरशालाच्च


स्थानान्तगोशालखरशालाच्च - स्थानान्तगोशाल । एभ्य इति । स्थानान्त, गोशाल, खरशाल — एतेभ्यः इत्यर्थः । गोस्थान इति । गोस्थाने जात इत्यर्थः । गोशाल इति । गोशाले जात इत्यर्थः । एवं खरशालः । सर्वत्र अणो लुकि नादिवृद्धिः । ननु शालाशब्दस्य स्त्रीलिङ्गत्वाद्ध्रस्वनिर्देशोऽनुपपन्न इत्यत आह — विभाषा सेनेति । लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादवपि लुक् ।

Padamanjari

Up

index: 4.3.35 sutra: स्थानान्तगोशालखरशालाच्च


गोशालेति ।'विभाषा सेना' इति नपुंसकत्वे ह्रस्वत्वम् । तत्साहचर्यात्खरशालस्यापि नपुंसकस्य ग्रहणम्, न तु द्वन्द्वैकवद्भावेन ह्रस्वत्वम् । एकादेशस्य पूर्वं प्रत्यन्तवद्भावाल्लिङ्गविशिष्टयपरिभाषया स्त्रीलिङ्गाभ्यामपि लुग्भवत्येव । यद्यपि टाबन्तयोरपि पाठे एकदेशविकृतस्यानन्यत्वान्नपुंसकाभ्यामपि लुक् सिद्ध्यति, लाघवार्थं तु ह्रस्वस्य पाठः ॥