4-3-34 श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलात् लुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः
श्रविष्ठादिभ्यः शब्देभ्यो नक्षत्रेभ्य आगतस्य जातार्थे लुग् भवति। तस्मिन् स्त्रीप्रत्ययस्यापि <<लुक् तद्धितलुकि>> १.२.४९ इति लुग् भवति। श्रविष्ठासु जातः श्रविष्ठः। फल्गुनः। अनुराधः। स्वातिः। तिष्यः। पुनर्वसुः। हस्तः । विशाखः। अषाढः। बहुलः॥ लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम्॥ चित्रायां जाता, चित्रा। रेवती। रोहिणी। स्त्रीप्रत्ययस्य लुकि कृते गौरादित्वाद् ४.१.४१ ङीष्॥ फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ॥ फल्गुनी। अषाढा॥ श्रविष्ठाषाढाभ्यां छणपि वक्तव्यः॥ श्राविष्ठीयः। आषाढीयः॥
एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् ॥
<<श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्त- विशाखाऽषाढाबहुलाल्लुक्>> - श्रविष्ठा । एभ्य इति । श्रविष्ठा, फल्गुनी, अनुराधा, स्वाति, तिष्ट, पुर्नर्वसु, हस्त विशाखा, अषाढा, बहुला — एतेभ्यः इत्यर्थः । जातार्थेति । प्रकरणलभ्यमिदम् । स्वातिशब्दो ह्रस्वान्त इति कैयटहरदत्तौ । दीर्घान्त इति 'अत सातत्यगमने' इति धातौ माधवः । कृत्तिकावाचिबहुलाशब्दष्टाबन्तः । समाहारद्वन्द्वे ह्रस्वनिर्देशः ।
कृतिकापर्यायस्य बहुलाशब्दस्यात्र द्वन्द्वैकवद्भावेन नपुंसकह्रस्वत्वेन निर्देशः, न बह्वर्थादाननिमितस्य बहुलाशब्दस्य; श्रविष्टादिभिः साहचर्यात् । चित्रेति ।'लुक्तद्धितलुकि' इति लुकि कृते पुनष्टाप् । गौरादिपाठान् ङीषिति । रेवती नक्षत्रे, रोहिणी नक्षत्रेऽ इति तत्र पठ।ल्ते, न चेमौ नक्षत्रवाचिनौ; जातार्थवृत्तित्वात् । तस्माद्'गौरादिषु पिप्पल्यादयश्च' इति पाठातेषां चावृत्कृतत्वादत्र ङीषित्यर्थः । टानौ वक्तव्याविति । स्त्रियामित्यपेक्ष्यते, टकारो ङीबर्थः, नकारः स्वरार्थः, विधानसामर्थ्याच्चानयोर्लुग्न भवति । च्छणपि वक्तव्य इति । अत्र च'स्त्रियाम्' इति नापेक्ष्यते ॥