4-3-33 अणञौ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः सिन्ध्वपकराभ्यां
सिन्ध्वपकरशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतस्तत्र जात इत्येतस्मिन् विषये। पूर्वेण कनि प्राप्ते वचनम्। सैन्धवः। आपकरः॥
क्रमात् स्तः । सैन्धवः । आपकारः ॥
<<अणञौ च>> - अणञो च । क्रमात्स्त इति ।सिन्ध्वपकराभ्या॑मिति शेषः ।
योगविभागो यथासंख्यार्थः ॥