4-3-32 सिन्ध्वपकराभ्यां कन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः
सिन्धुशब्दादपकरशब्दात् च कन् प्रत्ययो भवति तत्र जात इत्येतस्मिन् विषये सिन्धुशब्दः कच्छादिः, ततोऽणि मनुष्यवुञि (४.२.१३३.१३४) च प्राप्ते विधानम् अपकरशब्दादप्यौत्सर्गिकेऽणि। सिन्धुकः। अपकरकः॥
सिन्धुकः ॥ कच्छाद्यणि मनुष्यवुञि च प्राप्ते । अपकरकः । औत्सर्गिकेऽणि प्राप्ते ॥
<<सिन्ध्वपकराभ्यां कन्>> - सिन्ध्वपकराभ्यां कन् । सिन्धुक इति । सिन्धौ जात इत्यर्थः । कच्छादीति ।कच्छादिभ्यश्चे॑त्यणिमनुष्यतत्स्थयोश्चे॑ति वुञि च प्राप्तेऽयं कन्विधिरित्यर्थः । अपकरक इति । अपकरे जात इत्यर्थः । अणि प्राप्ते इति ।कन्विधि॑रिति शेषः ।