4-3-31 अ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः वुन् अमावास्यायाः
अमावास्याशब्दादकारः प्रत्ययो भवति तत्र जात इत्येतस्मिन् विषये। पूर्वेण वुन्नणोः प्राप्तयोरयं तृतीयः प्रत्ययो विधीयते। अमावास्यः, अमावास्यकः आमावास्यः अमावस्यः, अमावस्यकः, आमावस्यः॥
अमावास्यः ॥
किमर्थो योगविभागः, न चठमावास्याया वाऽ इत्युच्येत, चकाराद्वुञ्, वावचनादुभयोरभावेऽणपि भविष्यति ? सयत्म् ; उतरत्र तु विकल्पानुवृत्तिः शङ्क्येत । योगविभागे तु सन्धिवेलाद्यणोऽभ्यनुज्ञानाय पूर्वसूत्रे वाग्रहणसामर्थ्यादस्यापि विकल्पसिद्धेरिह वाग्रहणÄ नानुवर्त्यमिति व्यवधानादुतरत्र विकल्पस्य निवृत्तिः सिद्धा भवति ॥