4-3-30 अमावास्यायाः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः वुन्
अमावास्याशब्दाद् वुन् प्रत्ययो भवति वा तत्र जात इत्येतस्मिन् विषये । संधिवेलादिषु ४.३.१६ पाठादणोऽपवादः। अमावास्यकः, आमावास्यः। एकदेशविकृतस्यानन्यत्वाद् अमावस्याशब्दाद् अपि भवति। अमावस्यकः। आमावस्यः॥
अमावास्यकः । आमावास्यः ॥
<<अमावास्याया वा>> - अमावास्याया वा ।वु॑निति शेषः । पक्षे सन्धिवेलादित्वादण् । एकदेशविकृतन्यायादमावस्याशब्दादप्ययं विधिः ।
एकदेशविकृतस्यानन्यत्वादिति । ठमावस्यदन्यतरस्याम्ऽ इत्यत्र ठमापूर्वस्य वसेर्ण्यति पक्षे वृद्ध्यभावो निपात्यतेऽ इत्युक्तम् । ण्यति च ठत उपधायाःऽ इति सामान्येन वृद्धिविधानात्, अमावास्याशब्दस्य न्याय्यत्वादवृद्ध्युपधस्तस्यैवैकदेशविकार इति भावः । ये त्विह सूत्रे सन्धिवेलादिषु च ह्रस्वोपधमधीयते, तेषां दीर्घोपधस्य न स्यात्; अतद्विकारत्वात् ॥