पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन्

4-3-28 पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्करात् वुन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः सञ्ज्ञायां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूर्वाह्णादिभ्यः शब्देभ्यो वुन् प्रत्ययो भवति तत्र जात इत्येतस्मिन् विषये संज्ञायां गम्यमानायाम् । पूर्वाह्णकः। अपराह्णकः। <<विभाषा पूर्वाह्णापराह्णाभ्याम्>> ४.३.२४ इत्यस्यापवादः। आर्द्रकः। मूलकः। नक्षत्राणोऽपवादः। प्रदोषकः। <<निशाप्रदोषाभ्यां च>> ४.३.१४ इत्यस्यापवादः। अवस्करकः। औत्सर्गिकस्याणोऽपवादः। असंज्ञायां तु यथाप्राप्तं ठञादय एव भवन्ति॥

Siddhanta Kaumudi

Up

पूर्वाह्णकः । अपराह्णकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन्>> - कृतलब्ध । तत्रेत्येवेति । 'तत्र जातः' इत्यतस्तत्रेत्येवानुवर्तते ।जात इति तु निवृत्तमित्यर्थः । तथा च कृतो लब्धः क्रीतः कुशलो वेत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथं स्युरित्यर्थः । स्नौग्घ्न इति । औत्सर्गिकोऽण् । राष्ट्रे कृतो राष्ट्रिय इत्याद्यप्युदाहार्यम् ।

Padamanjari

Up