संज्ञायां शरदो वुञ्

4-3-27 सञ्ज्ञायां शरदः वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शरच्छब्दात् सप्तमीसमर्थाद् जात इत्येतस्मिन्नर्थे वुञ् प्रत्ययो भवति, ऋत्वणोऽपवादः, समुदायेन चेत् संज्ञा गम्यते। शारदका दर्भाः। शारदका मुद्गाः। दर्भविशेषस्य मुद्गविशेषस्य चेयं संज्ञा। संज्ञायामिति किम्? शारदं सस्यम्। संज्ञाधिकारं केचित् <<कृतलब्धक्रीतकुशलाः>> ४.३.३८ इति यावदनुवर्तयन्ति॥

Siddhanta Kaumudi

Up

ऋत्वणोऽपवादः । शारदका दर्भविशेषा मुद्गविशेषाश्च ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संज्ञायां शरदो वुञ्>> - संज्ञायां शरदो वुञ् । संज्ञायामित्येतदत्कृतलब्धक्रीते॑त्येतत्पर्यन्तमनुवर्तत इति केचिदिति वृत्तिकृतः ।

Padamanjari

Up

समुदायेन चेदिति । प्रकृतिप्रत्ययसमुदायश्चेत्संज्ञा भवतीत्यर्थः । कृतलब्धक्रीतकुशला इति यावदिति । यावच्छब्दोऽवधिद्योतको निपातः ॥