प्रावृषष्ठप्

4-3-26 प्रावृषः ठप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रावृट्शब्दात् सप्तमीसमर्थाद् जात इत्येतस्मिन्नर्थे ठप् प्रत्ययो भवति। एण्यस्यापवादः। पकारः स्वरार्थः। प्रावृषि जातः प्रावृषिकः॥

Siddhanta Kaumudi

Up

एण्यस्यापवादः । प्रावृषि जातः प्रावृषिकः ॥

Laghu Siddhanta Kaumudi

Up

एण्यापवादः। प्रावृषिकः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्रावृषष्ठप्>> - प्रावृषष्ठप् । ठपः पित्त्वम्अनुदात्तौ सुप्पितौ॑ इति स्वारार्थम् । एण्यस्येति । 'प्रावृष एण्यः' इति विहितस्येत्यर्थः । एवंच 'प्रावृष एम्यः' इति सूत्रं जातादन्यार्थमिति पर्यवस्यति ।

Padamanjari

Up