4-3-21 हेमन्तात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट् छन्दसि ठञ्
छन्दसीत्येव। हेमन्तशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः। ऋत्वणोऽपवादः। सह॑श्च सह॒स्य॑श्च॒ हैम॑न्तिकावृ॒तू (तै०सं० ४.४.११.१)। योगविभाग उत्तरार्थः॥
छन्दसि ठञ् । हैमन्तिकम् । योगविभाग उत्तरार्थः । शौनकादिभ्यछन्दसि <{SK1486}> णिनिः प्रोक्तेऽर्थे । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः । वाजसनेयिनः । छन्दसि किम् । शौनकीया शिक्षा ॥