युष्मदस्मदोरन्यतरस्यां खञ् च

4-3-1 युष्मदस्मदोः अन्यतरस्यां खञ् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् छः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

देशाधिकारो निवृत्तः। युष्मदस्मदोः खञ् प्रत्ययो भवति शैषिकः। चकाराच् छश्च। अन्यतरस्यांग्रहणाद् यथाप्राप्तम्। तदेते त्रयः प्रत्यया भवन्ति, तत्र वैषम्याद् यथासंख्यं न भवति। त्यदादित्वाद् वृद्धसंज्ञकयोर्युष्मदस्मदोश्छे प्राप्ते प्रत्येकं प्रत्ययत्रयं विधीयते। यौष्माकीणः। आस्माकीनः। युष्मदीयः। अस्मदीयः। यौष्माकः। आस्माकः॥

Siddhanta Kaumudi

Up

चाच्छः । पक्षेऽण् । युवयोर्युष्माकं वा अयं युष्मदीयः । अस्मदीयः ॥

Laghu Siddhanta Kaumudi

Up

चाच्छः। पक्षेऽण्। युवयोर्युष्माकं वायं युष्मदीयः, अस्मदीयः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<युष्मदस्मदोरन्यतरस्यां खञ् च>> - युष्मदस्मदोः । युष्मदस्मच्छब्दयोरिह शब्दस्वरूपपरत्वात् त्यदादीनि सर्वैर्नित्यम् इत्येकशेषो न भवति । पञ्चम्यर्थे षष्ठी । युष्मच्छब्दादस्मच्छब्दाच्च जाताद्यर्थेषु खञ्-स्यादित्यर्थः । चाच्छः । गर्तोत्तरपदादित्यधिकृतः छः चकारेण समुच्चीयत इत्यर्थः ।युष्मदीय इति । द्विवचनान्दाद्बहुवचनान्ताच्च छः । ईयादेशः । सुब्लुकि युवादेशस्य निवृत्तिः, तस्य विभक्तौ परे विधानात् । प्रकृत्यर्थैकत्वे विभक्तेर्लुप्तत्वेऽपि त्वादेशो वक्ष्यते । अस्मदीय इति । आवयोरस्माकं वा अयमित्यर्थः ।

Padamanjari

Up

षष्ठीनिर्देश उतरार्थः । एते त्रयः प्रत्यया भवन्तीति । ननु चान्यतरस्यांग्रहणेन खञ्च्छयोः पक्षेऽनुत्पत्तिः प्रतिपाद्यते, तदनुत्पतावपवादाभावात्स्वशास्त्रेण'प्राग्दीव्यतः' इत्यनेनैवाण् भवति, तत्कुतोऽनेन प्रत्ययत्रयस्य विधानम्, छाएऽपि तर्हि नैवानेन विधीयते, तस्यापि हि चकारोऽभ्यनुज्ञापक एव - यद्यन्योऽपि कश्चित्प्राप्नोति सोऽपि भवतीति, ततश्छाएऽपि स्वशास्त्रेण'वृद्धाच्छः' इत्यनेनैव भवति, एक एव त्वपूर्वः खञ् विधीयते । अथ यस्य प्रवृतावस्य तात्पर्यं स सर्वोऽनेन विधीयत इति च्छस्यानेन विधानम् । यद्येवम्, अणोऽप्यनेनैव विधानम्, न खञ्च्छयोरनुत्पत्तिमात्रेऽन्यतरस्यांग्रहणस्य तात्पर्यम्, तस्य महाविभाषयैव सिद्धत्वात्, किं तर्हि ? अणः प्रवृतावपि । तस्मातात्पर्यतस्त्रय एते प्रत्यया भवन्तीत्युक्तम्, प्रत्येकं प्रत्ययत्रयं विधीयत इति च । तत्र खञ्प्रत्ययो भवतीत्यनेन खञ एवापूर्वस्य विधानमिति दर्शितम् । अन्यतरस्यांग्रहणाद्यथाप्राप्तं चेत्यनेनाणोऽभ्यनुज्ञानम् । त्यदादित्वाद्यौष्मदस्मदोश्छे प्राप्त इत्यनेनापि छ्ंअस्याभ्यनुज्ञानम् । भाष्ये तु योगविभागेन यथासंख्याभावः प्रतिपादितः -'युष्मदस्मदोः' इत्येको योगः, अत्र'गर्तोतरपदाच्छः' इत्यतश्छाएऽनुवर्तते; ततः'खञ्च' इति द्वितीयो योगः ॥