वर्षाभ्यष्ठक्

4-3-18 वर्षाभ्यः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वर्षाशब्दाट् ठक् प्रत्ययो भवति शैषिकः। ऋत्वणोऽपवादः। वार्षिकं वासः। वार्षिकमनुलेपनम्॥

Siddhanta Kaumudi

Up

वर्षासु साधु वार्षिकं वासः । कालात्साधुपुष्प्यत्पच्यमानेषु <{SK1418}> इति साध्वर्थे ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वर्षाभ्यष्ठक्>> - वर्षाभ्यष्ठक् । तृतीयर्तौवर्षाशब्दौ नित्यं बहुवचनान्तः,अप्सुमनःसमासिकतावर्षाणां बहुत्व॑मिति लिङ्गानुशासनसूत्रात् ।स्त्रिया प्रावृट् स्त्रियां भूम्नि वर्षाः॑ इत्यमरः । वर्षाशब्दाजाताद्यर्थे ठगित्यर्थः । वर्षाषु साध्विति हितकारीत्यर्थः । ननुतत्र साधु॑रिति साध्वधिकारस्य शेषाधिकारबहुर्भूतत्वात्कथं साध्वर्थेऽयं प्रत्यय इत्यत आह — कालादिति । साध्वर्थे इति । साध्वर्थेऽपि ठगित्यर्थः । अस्य जाताद्यर्थेषु शैषिकेष्वन्तर्भावादिति भावः ।

Padamanjari

Up

वार्षिकं वास इति ।'कालात्साधुपुष्प्यत्पच्यमानेषु' इति साध्वर्थे ठक् ॥