जम्ब्वा वा

4-3-165 जम्ब्वाः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे फले अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

फल इत्येव। जम्बूशब्दात् फलेऽभिधेये वाण् प्रत्ययो भवति। अञोऽपवादः। अत्राणो विधानसामर्थ्याल् लुग् न भवति, अञस्तु भवत्येव। जाम्बवानि फलानि, जम्बूनि वा॥

Siddhanta Kaumudi

Up

जम्बूशब्दात्फलेण् वा स्यात् । जाम्बवम् । पक्षे ओरञ् तस्य लुक् जम्बु ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<जम्ब्वा वा>> - जम्ब्वा वा । जम्ब्विति । जम्ब्वाः फलमित्यर्थः । अञो लुकि विशेष्यानुसारेण नपुंसकत्वाद्ध्रस्व इति भावः ।

Padamanjari

Up

अञस्तु भवत्येव । न ह्यञो विधानसामर्थ्यम् ; फलादन्यत्र श्रवणात् । जम्बूनीति । फलस्याभिधेयत्वान्नपुंसकह्रस्वे'जश्शसोः शिः' , नुम्,'सर्वनामस्थाने च' इति दीर्घः ॥