प्लक्षादिभ्योऽण्

4-3-164 प्लक्षादिभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे फले

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

फल इत्येव। प्लक्षादिभ्यः प्रातिपदिकेभ्यः फले विकारावयवत्वेन विवक्षितेऽण् प्रत्ययो भवति। अञोऽपवादः। विधानसामर्थ्यात् तस्य न लुग् भवति। प्लाक्षम्। नैयग्रोधम्॥ प्लक्ष। न्यग्रोध। अश्वत्थ। इङ्गुदी। शिग्रु। कर्कन्धु। बृहती। प्लक्षादिः॥

Siddhanta Kaumudi

Up

विधानसामर्थ्यान्न लुक् । प्लाक्षम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्लक्षादिभ्योऽण्>> - प्लक्षादिभ्योऽण् । विकारे अवयवे चे॑ति शेषः । तत्र शिग्रुकर्कन्धूशब्दयोरुवर्णान्तत्वादञि प्राप्ते, प्लक्षन्यग्रोधादीनामनुदात्तादित्वादञि प्राप्तेऽण्विधिः । नन्वस्य फले अणो लुक्कुतो नेत्यत आह — विधानेति ।

Padamanjari

Up

अञोऽपवाद इति । शिग्रु-काक्षतुशब्दाभ्यामुवर्णान्तलक्षणस्य, शेषेभ्यस्त्वनुदातल7णस्य । तत्र प्लक्षशब्दः'फिषः' इत्यन्तोदातः, फिषिति प्रातिपदिकस्य नाम । न्यग्रोधशब्दः'लघावन्ते' इति मध्योदातः । अश्वत्थशब्दो घृतादित्वादन्तोदातः । इड्गुदीबृहतीशब्दौ गौरादिङीषन्तौ । विधानसामर्थ्यादिति । यद्यस्य लुक् स्याद्विधानमनर्थकं स्यात् । न ह्यणोऽञो वा लुकि कृते कश्चिद्विशेषः । नैयग्रोधमिति । न्यग्रोधस्य च'केवलस्य' इत्यैजागमः ॥