4-3-159 एण्याः ढञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे
एणीशब्दाद् ढञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। प्राण्यञोऽपवादः। ऐणेयं मांसम्। पुंसस्त्वञेव भवति। एणस्य मांसमैणम्॥
ऐणेयम् । एणस्य तु ऐणम् ॥
<<एण्या ढञ्>> - एण्या ढञ् । एण्या अवयवो विकारो वा ऐणेयम् । ढस्य एयादेशः ।यस्येति चे॑ति ईकारलोपः । स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह — एणस्य त्विति ।
स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह -पुंसस्त्वञव भवतीति ॥