4-3-15 श्वसः तुट् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट् ठञ् विभाषा
index: 4.3.15 sutra: श्वसस्तुट् च
विभाषा इत्येव। श्वःशब्दाद् विभाष ठञ् प्रत्ययो ह्बवति, तस्य च तुडागमो भवति। त्यप्प्रत्ययोऽप्यतो विहितः, ऐषमोह्रः श्वसोऽन्यत्रस्याम् 4.2.105 इति। एताभ्यां मुक्ते ट्युट्युलावपि भवतः। शैवस्तिकः, श्वस्त्यः, श्वस्तनः।
index: 4.3.15 sutra: श्वसस्तुट् च
श्वस् शब्दाट्ठञ् वा स्यात्तस्य तुडागमश्च ॥
index: 4.3.15 sutra: श्वसस्तुट् च
श्वसस्तुट् च - आसस्तुट् च । तस्येति । प्रत्ययस्येत्यर्थः । तुटि टकार इत् । उकार उच्चारणार्थः ।
index: 4.3.15 sutra: श्वसस्तुट् च
तस्य चेति । ठञः, न तु श्वः शब्दस्य । कुत एतत् ? ठञो विधेयत्वेन प्राधान्यात् । स च तुडागम इकादेशे कृते भवतीति वेदितव्यम् । ननु चान्तरङ्गत्वादिकादेशात्प्राक् ठञस्तुट् प्राप्नोति, इकादेशस्त्वङ्गधिकारे विधानादसङ्गसंज्ञायामभिनिर्वृतायां पश्चाद् भवन्बहिरङ्गः, तुटि च कृते प्रत्ययादेष्ठस्येकादेशविधानाद्यथा कर्मठ इत्यत्र न भवति एवमत्रापि न स्यात्, यदि पुनरयं तुक् पूर्वान्तः क्रियते; नैवं शक्यम्, ठिसुसुक्तान्तात्कःऽ इति कादेशः स्यात्, तस्मादस्तु परादिरेव । कथमिकादेशः ? ज्ञापकात्सिद्धम्, यदयं वुञ्च्छणाअदिषु ठचश्चित्करणं करोति, तज्ज्ञापयति - अन्तरङ्गेभ्योऽपि पूर्वमिकादेश एव भवतीति । यदि न स्यात्, प्रत्ययसंज्ञासन्नियोगशिष्टे प्रत्ययस्वरे कृते पश्चादिकादेश इति सिद्धमन्तोदातत्वं स्यात् । ट।लुट।लुलावपि भवतीति ।'सायंचिरम्' इत्यादिना श्वः शब्दोऽव्ययम्, कालवाची चेति कृत्वा । शौवस्तिकमिति । द्वारादित्वाद् वृद्धिप्रतिषेधः, ऐजागमश्च ॥