4-3-158 उमोर्णयोः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे वुञ्
index: 4.3.158 sutra: उमोर्णयोर्वा
उमाशब्दादूर्णाशदच् च वा वुञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। औमकम्, औमम्। और्णकम् और्णम्।
index: 4.3.158 sutra: उमोर्णयोर्वा
औमम् । औमकम् । ओर्णम् । और्णकम् वुञभावे यथाक्रममणञौ ॥
index: 4.3.158 sutra: उमोर्णयोर्वा
उमोर्णयोर्वा - उमोर्णयोर्वा ।नु॑ञिति शेषः । औमकमिति । उमा — सस्यविशेषः ।उमा स्यादतसी क्षुमा॑ इत्यमरः । उमाया विकारोऽवयवो वेत्यर्थः । औममिति ।तृणधान्यानां चे॑त्युमाशब्द आद्युदात्तः । ततो वुञभावेअनुदात्तादेश्चे॑त्यञभावादौत्सर्गिकोऽण् । ऊर्णाशब्दस्तु फिट्स्वरेणान्तोदात्तः । ततो वुञभावे अनुदात्तादित्वादञित्यर्थः ।ऊर्णा मेषादिलोम्नि स्यादि॑त्यमरः ।स्थूणोर्णे नपुंसके चे॑ति लिङ्गानुशासनसूत्रम् ।
index: 4.3.158 sutra: उमोर्णयोर्वा
उमाशब्दस्तृणधान्यानां वेत्याद्यौदातः, ऊर्णाशब्दः प्रातिपदिकस्वरेणान्तोदातः, ताभ्यां वुञभावे यथाक्रममणञौ ॥