क्रीतवत् परिमाणात्

4-3-156 क्रीतवत् परिमाणात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे

Kashika

Up

index: 4.3.156 sutra: क्रीतवत् परिमाणात्


प्राग्वतेष्ठञ् 5.1.18 इत्यत आरभ्य क्रीतार्थे ये प्रत्ययाः परिमाणाद् विहिताः, ते विकारेऽतिदिश्यन्ते। परिमाणात् क्रीत इव प्रत्यया भवन्ति तस्य विकारः इत्येतस्मिन् विषये। अणादीनामपवादः। सङ्ख्या अपि परिमाणग्रहणेन गृह्यते, न रूढिपरिमाणम् एव। निष्केण क्रीतं नैष्किकम्। एवं निष्कस्य विकारो नैष्किकः। शतेन क्रीतं शत्यम्, शतिकम्। शतस्य विकारः शत्यः, शतिकः। साहस्रः। वतिः सर्वसादृश्यार्थः। अध्यर्धपूर्वाद् द्विगोर्लुगसंज्ञायाम् 5.1.28 इत्येवमादिकमप्यतिदिश्यते। द्विसहस्रः, द्विसाहस्रः। द्विनिष्कः, द्विनैष्किकः।

Siddhanta Kaumudi

Up

index: 4.3.156 sutra: क्रीतवत् परिमाणात्


प्राग्वहतेष्ठक् <{SK1548}> इत्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्ते । अणादीनामपवादः । निष्केण क्रीतं नैष्किकम् । एवं निष्कस्य विकारोऽपि नैष्किकः । शतस्य विकारः शत्यः । शतिकः ॥

Balamanorama

Up

index: 4.3.156 sutra: क्रीतवत् परिमाणात्


क्रीतवत् परिमाणात् - क्रीततवत्परि । उपाधिनेति । प्रकृत्यादि विशेषणेनेत्यर्थः । नैष्किक इति ।असमासे निष्कादिभ्यः॑ इति क्रीते ठक् । शत्यः शतिक इति । 'शताच्च ठन्यतौ' इति क्रीते ठन्यतौ ।

Padamanjari

Up

index: 4.3.156 sutra: क्रीतवत् परिमाणात्


'चरणेभ्यो धर्मवत्' इत्यनेन तुल्यमेतत् । सङ्ख्या च परिमाणग्रहणेन गृह्यत इति । चकारादुन्मानं च, परिमीयतेऽनेनेति परिमाणमितियौगिकः परिमाणशब्द इत्यर्थः । तदाह - न रूढिपरिमाणमेवेति । नैष्किक इति । ठसमासे निष्कादिभ्यःऽ इति ठक् । शत्यः, शतिक इति ।'शताच्च ठन्यतावशते' । साहस्रमिति ।'शतमानविशतिकसहस्रवसनादण्' । वतिः सर्वसादृश्यार्थ इति । किमेवं सति सिद्धं भवति ? तदाह - अध्यर्द्धपूर्वेत्यादि । आदिशब्देन प्रकृतिप्रत्यययोः प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकऽ इति तदन्तविधेश्च परिग्रहः । एतदुक्तं भवति - याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया विहितास्ताभ्यः प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया विकारे भवन्ति । द्विसाहस्रमिति । पक्षे लुक्,'सङ्ख्यायाः संवत्सरसङ्ख्यस्य च' इत्युतरपदवृद्धिः । द्विनैष्किकमिति । प्राग्वतीयस्य ठञः'द्वित्रिपूर्वान्निष्कात्' इति पक्ष लुक्,'परिमाणान्तस्य' इत्युतरपदवृद्धिः ॥