4-3-155 ञितः च तत्प्रत्ययात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे अञ्
अञित्येव। तदिति विकारावयवयोरर्थयोः प्रत्यवमर्शः। ञिद् यो विकारावयवप्रत्ययः, तदन्तात् प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरेव। मयटोऽपवादः। <<ओरञ्>> ४.३.१३९, <<शम्याष्ट्लञ्>> ४.३.१४२, <<प्राणिरजतादिभ्योऽञ्>> ४.३.१५४ <<उष्ट्राद् वुञ्>> ४.३.१५७, <<एण्या ढञ्>> ४.३.१५९, <<कंसीयपरशव्ययोर्यञञौ०>> ४.३.१६८ इत्येते प्रत्यया गृह्यन्ते। दैवदारवस्य विकारोऽवयवो वा दैवदारवम्। दाधित्थस्य दाधित्थम्। पालाशस्य पालाशम्। शामीलस्य शामीलम्। कापोतस्य कापोतम्। औष्ट्रकस्य औष्ट्रकम्। ऐणेयस्य ऐणेयम्। कांस्यस्य कांस्यम्। पारशवस्य पारशवम्। ञित इति किम् ? बैल्वमयम्। तत्प्रत्ययादिति किम् ? बैदमयम् ॥
ञिद्योविकारावयवप्रत्ययस्तदन्तादञ् स्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दाधित्थस्य दाधित्थम् । कापित्थम् । ञितः किम् । बैल्वमयम् ॥
<<ञितश्च तत्प्रत्ययात्>> - ञितश्च तत्प्रत्ययात् । तयोः= विकारावयवयोः प्रत्ययः-तत्प्रत्ययः । तदाह — ञिद्य इति । तयोरेवेति । विकारावयवयोरेवेत्यर्थः । शामीलस्येति । शम्या विकारोऽवयवो वा शामीलम् ।शम्याः ष्यञ् । शामीलस्य विकारोऽवयवो वेत्यर्थे अञि शामीलमिति भवतीत्यर्थः ।नित्यं वृद्धे॑ति मयटोऽपवादः । दाधित्थमिति । दधित्थस्य विकारोऽवयवो वा दाधित्थम् । अनुदात्तादित्वादञ् । दाधित्थस्य विकारो दाधित्थम् । मयडपवादोऽञ् । बैल्वमयमिति ।बिस्वादिभ्यो॑णिति बिल्वशब्दादणि बैल्वः । तस्य विकार इत्यर्थे मयडेव, न त्वञ् । अणो ञित्त्वाऽभावादिति भावः । भाष्ये तुविकारावयवप्रत्ययान्तात्पुनस्तत्प्रत्यया अनभिधानान्ने॑त्याश्रित्या सूत्रमिदं प्रत्याख्यातम् ।
तयोर्वाचकत्वेन यः सम्बन्धी प्रत्यः स तत्प्रत्ययः षष्ठीसमासः । विकारावयवयोरेवेति । यदि तु ञित्प्रत्ययान्तः प्राण्योषधिवृक्षवाची सम्भवति ततोऽवयवेऽपि भवति; द्वयोः प्रकृतत्वात् । लक्ष्यमनपेक्ष्यैवमुक्तम् । ननु च पूर्वे पञ्चालाः, पटो दग्ध इत्यवयवे समुदायशब्दो दृष्टः, विकारे च प्रकृतिशब्दः - शालीन्भुङ्क्ते मुद्गैरिति शालिविकारान्मुद्गविकारैरित्यर्थः; ततश्च देवदार्वाद्यवयवविकारवृतेर्देअवदार्वादिशब्दातद्विकारावयवयोस्तेन तेनाञादयो भविष्यन्ति, नार्थोऽनेनेत्याशङ्क्याह - मयटोऽपवाद इति । सत्यमस्ति यथाकथञ्चिदिष्टसिद्धः, तथापि वृद्धलक्षणो मयण्मा भूदित्येवमर्थमेवाञ्विधेयः । अन्यथा येनैव हेतुनैतद्वाक्यं भवति - दैवदारवस्य विकारः, शामलस्य विकारः, तेनैव मयडपि स्यात्, विकार्यातेनैव हेतुना मयडपि प्राप्नोति ? अनभिदानान्न भविष्यति, तदेव तर्ह्यनभिधानं विधानेन प्रतिपाद्यते । यद्येवम्,'तस्य विकारः' , ठुष्ट्राद् वुञ्ऽ, औष्ट्रकं चर्म, तस्य विकार औष्ट्रिकोपानदिति,'टिड्ढाणञ्' इति ङीप्प्राप्नोति, न चेष्यते, एवं हि सौनागाः पठन्ति -'वुञश्चाञ ईतः प्रसङ्गः' इति । तस्मादवयवे समुदायशब्दो विकारे च प्रकृतिशब्द इति तेन तेन लक्षणेनाञादयो भविष्यन्ति । अनभिधानातु विकारावयवप्रत्ययान्तान्न मयड् भविष्यतीत्येतदेव साम्प्रतम् । बैल्वमयमिति ।'ञितो यत्नेन मयट्ंअ सूत्रकारो निवर्तयन् अन्यतो वष्टि मयटम्' इति वृत्तिकृतो मतम् । भाष्यवातिककारौ पुनराहतुः -'तच्चानभिदानमाश्रयितव्यम्, अभिधाने ह्यन्यतो' पि मयटः प्रसङ्गः - बैल्वस्य विकारःऽ इति ॥