4-3-153 जातरूपेभ्यः परिमाणे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे अण्
जातरूपं सुवर्णम्। बहुवचननिर्देशात् तद्वाचिनः सर्वे गृह्यन्ते। जातरूपवाचिभ्यः प्रातिपदिकेभ्योऽण् प्रत्ययो भवति परिमाणे विकारे। मयडादीनामपवादः। हाटको निष्कः। हाटकं कार्षापणम्। जातरूपम्। तापनीयम्। परिमाण इति किम्? यष्टिरियं हाटकमयी॥
अण् । बहुवचनात्पर्यायग्रहणम् । हाटकः तापनीयः सौवर्णो वा निष्कः । परिमाणे किम् । हाटकमयी यष्टिः ॥
<<जातरूपेभ्यः परिमाणे>> - जातरूपेभ्यः । अणिति । शेषपूरणम् । जातरूपं-सुवर्णं, तद्वाचिभ्योऽण् स्यात्परिमाणे विकारे गम्ये इत्यर्थः । ननु जातरूपशब्दस्यैव कुतो न ग्रहणमित्यत आह — बहुवचनादिति । हाटक इत्यादि । हाटकस्य तपनीयस्य सुवर्णस्य वा निष्कपरिमाणको विकार इत्यर्थः । तापनीय इति ।नित्यं वृद्धशरादिभ्यः॑ इति मयटोऽपवादः । इतरत्र तुअनुदात्तादेश्चे॑त्यञोऽपवादः ।गुञ्जाः पञ्चाद्यमाषकः । ते षोडशाऽक्षः॑ इत्यमरः । सुवर्णविस्तौ हेम्नोऽक्षे॑ इति च ।
मयडादीनामपवाद इति । आदिशब्देनाञो ग्रहणम्, बहुवचनं तु पूर्ववत् । तत्र वृद्धेभ्यो हाटकादिभ्यो मयटोऽपवादः, तपनीयादिभ्योनुदातादिभ्योऽञः ॥