4-3-152 तालादिभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे
तालादिभ्यः प्रातिपदिकेभ्योऽण् प्रत्ययो भवति विकारावयवयोरर्थयोः। मयडादीनामपवादः। तालं धनुः। बार्हिणम्। ऐन्द्रालिशम्॥ तालाद् धनुषि (ग०सू० १०४)। बार्हिण। इन्द्रालिश। इन्द्रादृश। इन्द्रायुध। चाप। श्यामाक। पीयूक्षा। तालादिः॥
अञ्मयटोरपवादः । (गणसूत्रम् -) तालाद्धनुषि ॥ तालं धनुः । अन्यत्तालमयम् । ऐन्द्रायुधम् ॥
<<तालादिभ्योऽण्>> - तालादिभ्योऽण् । तालाद्धनुषीति । गणसूत्रमिदम् । तालं धनुरिति ।नित्यं वृद्धे॑ति मयटोऽपवादः । ऐन्द्रायुधमिति ।अनुदात्तादेश्चेत्यञोऽपवादः, समासस्वरेणान्तोदात्तत्वात् ।
मयडादीनामपवाद इति । आदिशब्देनाञो ग्रहणम्, बहुवचनं तु तयोरेव प्रकृतिभेदेन बहुत्वात् । तत्र तालश्यामाकाभ्यां वृद्धत्वान्मयट् प्राप्तः बर्हिणस्य विकारो बार्हिणम् -'प्राणिरजतादिभ्यो' ञ्ऽ, तस्माद्'ञितश्च तत्प्रत्ययात्' इत्यञ् प्राप्तः, शेषेभ्योऽनुदातादिलक्षणस्य । लिशिदृशिभ्यामिन्द्रशब्द उपपदे मूलविभुजादित्वात्कः, ठन्येषामपि दृश्यतेऽ इति दीर्घत्वम् ।'चप् सान्त्वने' , पचाद्यच् । पीयूक्षाशब्दः'लघावन्ते' इति मध्योदातः, तत्र हि'फिष' इत्यधैकारात्प्रागेव टापः स्वरप्रवृत्तिः, इन्द्रायुधशब्द समासस्वरेणान्तोदातः । तालाद्धनुषीति । अन्यत्र तालमयमित्येव भवति । अण्ग्रहणं बाधकबाधनार्थम्, अन्यथा यथाविहितमित्युच्यमाने बार्हणशब्दाद्वृद्धलक्षणो मयट् स्यात्, वचनं तु'ञितश्च तत्प्रत्ययात्' इत्यञो बाधनार्थं स्यात् ॥