4-3-151 न उत्वद्वर्ध्रबिल्वात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे मयट् द्व्यचः छन्दसि
उत्वतः प्रातिपदिकाद् वर्ध्रबिल्वशब्दाभ्यां च मयट् प्रत्ययो न भवति। <<द्व्यचश्छन्दसि>> ४.३.१५० इति प्राप्तः प्रतिषिध्यते। मा॒ैञ्जं शि॒क्य॑म् (तै०सं० ५.१.१०.५)। गा॑र्मु॒तं च॒रुम् (तै०सं० २.४.४.१)। वार्ध्री बालप्रग्रथिता (आप०श्रौ० १८.१०.२३) भवति। ब॒ैल्वो॑ ब्॒रह्मवर्च॒स॑का॒मेन का॒र्यः (मै०सं० ३.९.३)। तपरकरणं तत्कालार्थम्। धूममयान्यभ्राणि। मतुब्निर्देशस्तदन्तविधिनिरासार्थः। इहैव स्यात् — वैणवी यष्टिरिति॥
उत्वान् उकारवान् । मौञ्जं शिक्यम् । वर्ध्रं चर्म तस्य विकारो वार्ध्री रज्जुः । बैल्वो यूपः । सभाया यः - <{SK1657}> ॥
मौञ्जमिति । मुञ्जशब्दात्'तृणधान्यानां च द्व्यषाम्' इत्याद्यौदातत्वादौत्सर्गिकोऽण् । गार्मुतमिति । गर्मुच्छब्दः'मृग्रेरुतिः' ,'ग्रोर्मुट् च' इत्युतिप्रत्ययान्तत्वादन्तोदात इति ठनुदातादेश्चऽ इत्यञ् । कथं तर्हि'तस्मा एतं गार्मुतं चरुं निर्वपेत्' इत्यन्तोदातत्वम् ? सर्वविधीनां च्छन्दसि विकल्पितत्वादण् भविष्यति । वाध्रीति । वर्ध्रशब्दः'लघावन्ते' इत्याद्यौदातः, तमादण्,'टिड्ढाणञ्' इति ङीप् । मतुब्निर्देशे इत्यादि । असति तस्मिन्वर्णग्रहणं सर्वत्र तदन्तविधि प्रयोजयतीति तदन्तविधिः स्यात् । वैणवीति । बिल्वाद्यण् ॥