4-3-150 द्व्यचः छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे मयट्
द्व्यचः प्रातिपदिकाच् छन्दसि विषये मयट् प्रत्ययो भवति विकारावयवयोरर्थयोः। भाषायां मयडुक्तः, छन्दस्यप्राप्तो विधीयते। यस्य॑ पर्ण्ामयी॑ जु॒हूर्भव॑ति (तै० सं० ३.५.७.१)। दर्भ॒म॑यं॒ वा॑सो॒ भवति (मै०सं० १.११.८)। शरम॑यं बहि᐀्॑र्भवति (आ०श्रौ० ९.७.५)॥
विकारे मयट् स्यात् । शरमयं बर्हिः । यस्य पर्णमयी जुहूः ॥