4-3-149 असञ्ज्ञायां तिलयवाभ्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे मयट्
तिलयवशब्दाभ्यामसंज्ञाविषये मयट् प्रत्ययो भवति विकारावयवयोरर्थयोः। तिलमयम्। यवमयम्। असंज्ञायामिति किम्? तैलम्। यावकः। <<यावादिभ्यः कन्>> ५.४.२९॥
तिलमयम् । यवमयम् । संज्ञायां तु तैलम् । यावकः ॥
<<असंज्ञायां तिलयवाभ्याम्>> - असंज्ञायां तिलयवाभ्याम् ।नित्यंमय॑डिति शेषः । यावक इति । यवशब्दाद्विकारे अण् । ततः 'यावादिभ्यः' इति स्वार्थे कन् ।
यावक इति । यवशब्दाद्विकारेऽण्, तदन्ताद्'यावादिभ्यः' इति स्वार्थे कन् ॥