4-3-14 निशाप्रदोषाभ्यां च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट् ठञ् विभाषा
निशाप्रदोषशब्दाभ्यां च विभाषा ठञ् प्रत्ययो भवति शैषिकः। <<कालाट् ठञ्>> ४.३.११ इति नित्ये ठञि प्राप्ते विकल्प उच्यते। नैशिकम्, नैशम्। प्रादोषिकम्, प्रादोषम्॥
वा ठञ् स्यात् । नैशिकम् । नैशम् । प्रादोषिकम् । प्रादोषम् ॥
<<निशाप्रदोषाभ्यां च>> - निशाप्रदोषाभ्यां च । वा ठञ् स्यादिति । शेषपूरणम् ।कालाट्ठ॑ञिति नित्यं प्राप्ते विकल्पोऽयम् ।