व्रीहेः पुरोडाशे

4-3-148 व्रीहेः पुरोडाशे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे मयट्

Kashika

Up

index: 4.3.148 sutra: व्रीहेः पुरोडाशे


व्रीहिशब्दान् मयट् प्रत्ययो भवति पुरोडशे विकारे। बिल्वाद्यणोऽपवादः। व्रीहिमयः पुरोडाशः। व्रैहमन्यत्।

Siddhanta Kaumudi

Up

index: 4.3.148 sutra: व्रीहेः पुरोडाशे


मयट् स्यात् । बिल्वाद्यणोऽपवादः । ब्रीहिमयः पुरोडाशः । व्रैहमन्यत् ॥

Balamanorama

Up

index: 4.3.148 sutra: व्रीहेः पुरोडाशे


व्रीहेः पुरोडाशे - व्रीहेः पुरोडाशे । पुरोडाशात्मके विकारे नित्यं मयट् स्यादित्यर्थः । तर्हि बिल्वादिगणे पाठः किमर्थमित्यत आह — व्रैहमन्यदिति ।