गोश्च पुरीषे

4-3-145 गोः च पुरीषे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे मयट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गोशब्दात् पुरीषेऽभिधेये मयट् प्रत्ययो भवति। गोमयम्। पुरीष इति किम्? गव्यं पयः। पुरीषं न विकारो नाप्यवयवः, तस्येदंविषये विधानम्। विकारावयवयोस्तु गोपयसोर्यतं ४.३.१६० वक्ष्यति॥

Siddhanta Kaumudi

Up

गोः पुरीषं गोमयम् ॥

Laghu Siddhanta Kaumudi

Up

गोः पुरीषं गोमयम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संज्ञायां कन्>> - संज्ञायां कन् । विकारविशेष इति । अपूप इत्यर्थः । तदाह — पूपोऽपूपः पिष्टकः स्यादिति । अमरकोशोऽयम् । पुरोडाशस्तु न पिष्टकः, तस्यानपूपत्वात् ।तुङ्गमनपूपाकृतिमआशफमात्रं पुरोडाशं करोती॑ति श्रुतेः ।

Padamanjari

Up

गव्यं पय इति । कथं पुनरत्र प्रसङ्गः, यावता विकारावयवयोरिति वर्तते, पयश्च न विकारो नाषयवः ? तत्राह - पुरीषं नं विकार इत्यादि । अक्रियमाणे पुरीषग्रहणे इष्टसिध्यर्थमेव'तस्येदम्' इत्यधैकारे'गोर्मयट्' इति सूत्रं कर्तव्यम्, ततश्चात्रापि प्रसङ्ग इत्यर्थः ॥