4-3-145 गोः च पुरीषे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे मयट्
index: 4.3.145 sutra: गोश्च पुरीषे
गोशब्दात् पुरीषेऽभिधेये मयट् प्रत्ययो भवति। गोमयम्। पुरीषे इति किम्? गव्यं पयः। पुरीषं न विकारो न च अवयवः, तस्य इदं विषये विधानम्। विकारावयवयोस् तु गोपयसोर्यतं वक्ष्यति।
index: 4.3.145 sutra: गोश्च पुरीषे
गोः पुरीषं गोमयम् ॥
index: 4.3.145 sutra: गोश्च पुरीषे
गोः पुरीषं गोमयम्॥
index: 4.3.145 sutra: गोश्च पुरीषे
संज्ञायां कन् - संज्ञायां कन् । विकारविशेष इति । अपूप इत्यर्थः । तदाह — पूपोऽपूपः पिष्टकः स्यादिति । अमरकोशोऽयम् । पुरोडाशस्तु न पिष्टकः, तस्यानपूपत्वात् ।तुङ्गमनपूपाकृतिमआशफमात्रं पुरोडाशं करोती॑ति श्रुतेः ।
index: 4.3.145 sutra: गोश्च पुरीषे
गव्यं पय इति । कथं पुनरत्र प्रसङ्गः, यावता विकारावयवयोरिति वर्तते, पयश्च न विकारो नाषयवः ? तत्राह - पुरीषं नं विकार इत्यादि । अक्रियमाणे पुरीषग्रहणे इष्टसिध्यर्थमेव'तस्येदम्' इत्यधैकारे'गोर्मयट्' इति सूत्रं कर्तव्यम्, ततश्चात्रापि प्रसङ्ग इत्यर्थः ॥