नित्यं वृद्धशरादिभ्यः

4-3-144 नित्यं वृद्धशरादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे मयट् भाषायाम् अभक्ष्याच्छादनयोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भाषायामभक्ष्याच्छादनयोरित्येव। वृद्धेभ्यः प्रातिपदिकेभ्यः शरादिभ्यश्चाभक्ष्याच्छादनयोर्विकारावयवयोर्भाषायां विषये नित्यं मयट् प्रत्ययो भवति। वृद्धेभ्यस्तावत् — आम्रमयम्। शालमयम्। शाकमयम्। शरादिभ्यः — शरमयम्। दर्भमयम्। मृन्मयम्। नित्यग्रहणं किम्, यावतारम्भसामर्थ्यादेव नित्यं भविष्यति? एकाचो नित्यं मयटमिच्छन्ति, तदनेन क्रियते — त्वङ्मयम्, स्रङ्मयम्, वाङ्मयमिति ॥ शर। दर्भ। मृत्। कुटी। तृण। सोम। बल्वज। शरादिः॥

Siddhanta Kaumudi

Up

आम्रमयम् । शरमयम् ।<!एकाचो नित्यम् !> (वार्तिकम्) ॥ त्वङ्मयम् । वाङ्मयम् । कथं तर्हि आप्यमम्मयमिति । तस्येदम् <{SK1500}> इत्यण्णन्तात्स्वार्थे ष्यञ् ॥

Laghu Siddhanta Kaumudi

Up

आम्रमयम्। शरमयम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नित्यं वृद्धशरादिभ्यः>> - नित्यं वृद्ध ।मय॑डिति शेषः । उक्तविकल्पस्यापवादः ।एकाचो नित्यमिति ।नित्य॑मिति योगविभागलब्धमिदम् । अण्णन्तादिति । अपामिदमापम् ।तस्येद॑मित्यण् । ततः स्वार्थे चतुर्वर्णादित्वात् ष्यञि आप्यमिति रूपमित्यर्थः ।

Padamanjari

Up

नित्यं मयट्प्रत्ययो भवतीति । प्राग्दीव्यतीयानामपवादः । अणं तु कोपधलक्षणमञेव परत्वाद्वाधते । शाकमयम्, आम्रमयमिति । आम्रशब्दः ठमितम्योर्दीर्घश्चऽ इति रन्प्रत्ययान्तः । तदनेन क्रियत इति । नित्यंशब्दोऽतिरिच्यमानः पूर्वाचार्यपठितस्य वाक्यस्य स्मारक इति । एवं च मृच्छब्दस्य शरादिषु पाठोऽस्यैव प्रापञ्चार्थो द्रष्टव्यः ॥