पिष्टाच्च

4-3-146 पिष्टात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे मयट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पिष्टशब्दाद् नित्यं मयट् प्रत्ययो भवति तस्य विकार इत्येतस्मिन् विषये। अणोऽपवादः। पिष्टमयं भस्म॥

Siddhanta Kaumudi

Up

मयट् स्याद्विकारे । पिष्टमयं भस्म । कथं पैष्टी सुरेति । सामान्यविवक्षायां तस्येदं <{SK1500}>इत्यण् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पिष्टाच्च>> - पिष्टाच्च । शेषपूरणेन सूत्रं व्याचष्टे — मयट् स्याद्विकारे इति ।

Padamanjari

Up

पिष्टमंय भस्मेति ॥ पैष्टी सुरेति तु सामान्यविवक्षायाम्'तस्येदम्' इत्यण्,'प्रदीयतां दाशरथाय मैथिली' इतिवत् ॥