4-3-141 पलाशादिभ्यः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे बिल्वादिभ्यः अण् अञ्
पलाशादिभ्यः प्रातिपदिकेभ्यो वाञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। पालाशम्। खादिरम्। यावासम्। उभयत्र विभाषेयम्। पलाशखदिरशिंशपास्पन्दनानामनुदात्तादित्वात् प्राप्ते, अन्येषामप्राप्ते॥ पलाश। खदिर। शिंशपा। स्पन्दन। करीर। शिरीष। यवास। विकङ्कत। पलाशादिः॥
पालाशम् । कारीरम् ॥
<<पलाशादिभ्यो वा>> - पलाशादिभ्यो वा । 'अ' ञिति शेषः । अवयवे चेत्येव पलाशखदिररशिंशपास्यन्दनानामनुदात्तादित्वान्नित्यं प्राप्ते, इतरेषामप्राप्ते विकल्पोऽयम् ।
उभयत्रविभाषेयमिति । कथमित्याह - पलाशखदिरेत्यादि । पलाशशब्दो घृतादित्वादन्तोदातः । खदिरशब्दः ठजिरशिशरऽ इत्यादौ किरच्प्रत्ययान्तो निपातितः । शिंशपाशब्दो'द्वितीयं प्रागीषात्' इति वर्तमाने'पान्तादीनां गुर्वादीनाम्' इति मध्योदातः ।'स्पदि किञ्चिच्चलने' , ठनुदातेतश्च हलादेःऽ इति युच्, किरतेरीरन्, करीरम्,'कृहृभ्यामीषन्' , शृपृभ्यां किच्चऽ, शिरीषम्, शेषे नित्स्वरेणाद्यौदातावेतौ । विकङ्कतमूलासयवासशब्दाः'ग्रामादीनां च' इत्याद्यौदाताः ॥