अनुदात्तादेश्च

4-3-140 अनुदात्तादेः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे बिल्वादिभ्यः अण् अञ्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अनुदात्तादेः प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणोऽपवादः। दाधित्थम्। कापित्थम्। माहित्थम्॥

Siddhanta Kaumudi

Up

दाघित्थम् । कापित्थम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अनुदात्तादेश्च>> - अनुदात्तादेश्च ।विकारे अ॑ञिति शेषः ।अवयवे चे॑ति सूत्रमप्यत्र सम्बध्यते । दाधित्थमिति । दधित्थस्यावयवो विकारो वेत्यर्थः । एवं कापित्थम् ।कपित्थे तु दधित्थग्राहिमन्मथाः॑ इत्यमरः । अव्युत्पन्नप्रातिपदिकत्वात्-फिट्-स्वरेणान्तोदात्तावेतौ ।

Padamanjari

Up