ओरञ्

4-3-139 ओः अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे बिल्वादिभ्यः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उवर्णान्तात् प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणोऽपवादः। अनुदात्तादेरन्यदिहोदाहरणम्। दैवदारवम्। भाद्रदारवम्॥

Siddhanta Kaumudi

Up

दैवदारवम् । भाद्रदारवम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ओरञ्>> - ओरञ् । उवर्णादढ् स्यादित्यर्थः । प्राण्योषधिवृक्षेभ्योऽवये विकारे च, इतरेभ्यस्तु विकारे । दैवदारवं भाद्रदारवमिति । देवदारोर्भद्रदारोश्चावयवो विकारो वेत्यर्थः ।पीतद्वर्थाना॑मित्याद्युदात्तावेतौ । ततश्चअनुदात्तादेश्चे॑त्यनेन गतार्थता न ।

Padamanjari

Up

देवदारु-भद्रदारुशब्दौ'पीतद्रवर्थानाम्' इत्यादिनाद्यौदातौ । पीतद्रुः उ सरलो नवस्पतिः, पीतद्रुरर्थो येषां तेषामादिरुदातो भवतीत्यर्थः ॥