विभाषा रोगातपयोः

4-3-13 विभाषा रोगातपयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट् ठञ् शरदः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शरद इत्येव। रोग आतपे चाभिधेये शरच्छब्दाट् ठञ् प्रत्ययो वा भवति शैषिकः। ऋत्वणोऽपवादः। शारदिको रोगः। शारदिक आतपः। शारदो रोगः। शारद आतपः। रोगातपयोरिति किम् ? शारदं दधि॥

Siddhanta Kaumudi

Up

शारदिकः शारदो वा रोग आतपो वा । एतयोः किम् । शारदं दधि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विभाषा रोगातपयोः>> - विभाषा रोगातपयोः ।ठ॑ञिति शरद इति चानुवर्तते । शारदं दधीति । ञत्वणिति भावः ।

Padamanjari

Up