4-3-138 त्रपुजतुनोः षुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे बिल्वादिभ्यः अण्
त्रपुजतुशब्दाभ्यामण् प्रत्ययो भवति विकारे, तत्सन्नियोगेन तयोः षुगागमो भवति। ओरञोऽपवादः। त्रपुणो विकारः त्रापुषम्। जातुषम्। अप्राण्यादित्वाद् नावयवे॥
आभ्यामण् स्याद्विकारे एतयोः षुगागमश्च । त्रापुषम् । जातुषम् ॥
<<त्रपुजतुनोः षुक्>> - त्रपुजतुनो षक् । त्रापुषं जातुषमिति । त्रपुणो जतुनश्च विकार इत्यर्थः ।
अप्राण्यादित्वादिति । प्राण्योषधिवृक्षेष्वन्यतमत्वस्याभावादित्यर्थः ॥