4-3-137 कोपधात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे बिल्वादिभ्यः अण्
index: 4.3.137 sutra: कोपधाच्च
ककारौपधात् प्रातिपदिकादण् प्रत्ययो भवति यथायोगं विकारावयवयोरर्थयोः। अञोऽपवादः। तर्कु तार्कवम्। तित्तिडीकतैत्तिडीकम्। माण्डूकम्। दार्दुरूकम्। माधूकम्।
index: 4.3.137 sutra: कोपधाच्च
अण् । अञोऽपवादः । तर्कु, तार्कवम् । तैत्तिडीकम् ॥
index: 4.3.137 sutra: कोपधाच्च
कोपधाच्च - कोपधाच्च ।अ॑णिति शेषः । तत्र प्राण्योषधिवृक्षेभ्योऽवयवे विकारे च, इतरेभ्यस्तु विकारे एव तर्कु — तार्कवमिति । तर्कु इति प्रकृतिनिर्देशः । तर्कुर्नाम — वृक्षविशेषः, तस्यावयवो विकारो वेत्यर्थः ।ओर॑ञित्यस्यापवादोऽण् । तित्तिङीकशब्दो 'लघावन्ते' इति मध्योदात्तः ।अनुदात्तादेश्चे॑कत्यञोऽपवादोऽण् ।
index: 4.3.137 sutra: कोपधाच्च
अञोऽपवाद इति । ठोरञ्ऽ ठनुदातादेश्चऽ इति प्राप्तस्य, तितिडीकादयः'लघावन्ते' इत्यादिना मध्योदाताः ॥