बिल्वादिभ्योऽण्

4-3-136 बिल्वादिभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

बिल्व इत्येवमादिभ्योऽण् प्रत्ययो भवति विकारावयवयोरर्थयोः। यथायोगमञ्मयटोरपवादः। बिल्वस्य विकारोऽवयवो वा बैल्वः। गवेधुकाशब्दोऽत्र पठ्यते, ततः कोपधादेव सिद्धे मयड्बाधनार्थं ग्रहणम्॥ बिल्व। व्रीहि। काण्ड। मुद्ग। मसूर। गोधूम। इक्षु। वेणु। गवेधुका। कर्पासी। पाटली। कर्कन्धू। कुटीर। बिल्वादिः॥

Siddhanta Kaumudi

Up

बैल्वम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<बिल्वादिभ्योऽण्>> - विल्वादिभ्योऽण् । एषु प्राण्योषधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे अण् स्यादित्यर्थः । बैल्वमिति । बिल्वस्यावयवो विकारो वेत्यर्थः । बिल्व, व्रीहि काण्ड, मुद्ग, मसूर, गोधूम, इक्षु, वेणु, गवेधुक, कार्पासी, पाटली, कर्कन्धू, कटी॑ति बिल्वादयः । तत्र गवेदुकस्यकोपधाच्चे॑त्यणि सिद्धे मयड्बाधनार्थमिह पाठः । इतरेषां तुअनुदात्तादेश्चे॑त्यञो बाधनार्थमिति कौस्तुभे विस्तरः ।

Padamanjari

Up