आथर्वणिकस्येकलोपश्च

4-3-133 आथर्वणिकस्य एकलोपः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम् कौपिञ्जलहास्तिपदात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अणित्येव। आथर्वणिकशब्दादण् प्रत्ययो भवति, तत्सन्नियोगेन चेकलोपः, तस्येदमित्येतस्मिन् विषये। चरणवुञोऽपवादः। आथर्वणिकस्यायम् आथर्वणो धर्म आम्नायो वा। <<चरणाद् धर्माम्नाययोः>> (वा० ४.३.१२६)॥

Siddhanta Kaumudi

Up

अण् स्यात् । आथर्वणिकस्यायमाथर्वणः धर्म आम्नायो वा । चरणाद्वुञोऽपवादः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

चरणवुञोऽपवाद इति । अथर्वणा प्रोक्तो वेदोऽभेदोपचारादथर्वा, तमधीते वसन्तादित्वाठठक्, - आथर्वणिकः, दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाभावः । अथ वा - अथर्वणा प्रोक्तो वेदः'तेन प्रोक्तम्' इत्यण् ततः'च्छन्दोब्राह्मणानि' इति तद्विषयतायामाथर्वणशब्दस्यापि वसन्तादिषु पाठादध्येतरि ठक्, तस्य विधानसामर्थ्यात्'प्रोक्ताल्लुक्' इति लुग्न भवति - आथर्वणिकः । पुर्वसूत्रमिदञ्च वार्तिके दर्शनात्सूत्रेषु प्रक्षिप्तम् ॥