कौपिञ्जलहास्तिपदादण्

4-3-132 कौपिञ्जलहास्तिपदात् अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कौपिञ्जलहास्तिपदशब्दाभ्यामण् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। गोत्रवुञोऽपवादः, गोत्राधिकारात्। कौपिञ्जलः। हास्तिपदः॥

Siddhanta Kaumudi

Up

कुपिञ्जलस्यापत्यम् । इहैव निपातनादण् तदन्तात्पुनरण् । कौपिञ्जलः । गौत्रवुञोऽपवादः । हस्तिपादस्यापत्यं हास्तिपादस्यायं हास्तिपदः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

गोत्रवुञोऽपवाद इति । कुत इत्याह - गोत्राधिकारादिति । कौपिञ्जल इति । कुपिञ्जलस्यापत्यम्, अस्मादेव निपातनादण्, तदन्तात्पुनरण् । हास्तिपद इति । हस्तिन इव पादावस्य हस्तिपादः, पादस्य लोपो न भवति; ठहस्त्यादिभ्यऽ इति वचनात् । हस्तिपादस्यापत्यम्'तस्यापत्यम्' इति अस्मादेव निपातनादण्, पद्भावश्च, हास्तिपदस्येदम्, पुनरण् । अथाण्ग्रहणं किमर्थम् ? असत्यण्ग्रहणेऽनन्तरश्च्छः प्राप्नोति । सिद्धोऽत्र च्छः'वृद्धाच्छः' इति ? न सिद्ध्यति;'गोत्रचरणाद् वुञ्' इति वुञ्प्राप्नोति । एवं तर्हि यद्येताभ्यां च्छ इष्टः स्यात्, रैवतिकादिष्वेमेवौ पठेत्, एवं हि विभक्त्यनुच्चारणाल्लाघवं भवति । तस्मात्पृथगारम्भादेव छाए न भविष्यति । अन्यस्तु यो विहितो न च प्राप्नोति स एव भविष्यति, स चाणेव । एवं तर्ह्यसत्यण्ग्रहणे यत्र वुञ् प्राप्तः प्रतिषिध्यते, न दण्डमाणवान्तेवासिषु, तत्र वुञो विधानार्थमेतत्स्यातस्मादण्ग्रहणं कर्तव्यम् । णित्करणं ङीबर्थम्, पुंवद्भावप्रतिषेधार्थं च - कौपिञ्जली क्रिया अस्य कौपिञ्जलीक्रिय इति ॥