न दण्डमाणवान्तेवासिषु

4-3-130 न दण्डमाणवान्तेवासिषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्

Kashika

Up

index: 4.3.130 sutra: न दण्डमाणवान्तेवासिषु


दण्डप्रधाना मानवाः दण्डमाणवाः, अन्तेवासिनः शिष्याः। तेष्वभिधेयेषु वुञ् प्रत्ययो न भवति। गोत्रग्रहणम् इह अनुवर्तते, तेन वुञ्प्रतिषेधो विज्ञायते। गौकक्षाः दण्डमाणवाः अन्तेवासिनो वा। दाक्षाः। माहकाः।

Siddhanta Kaumudi

Up

index: 4.3.130 sutra: न दण्डमाणवान्तेवासिषु


दण्डप्रधाना माणवा दण्डमाणवास्तेषु शिष्येषु च वुञ् न स्यात् । दाक्षा दण्डमाणवाः शिष्या वा ॥

Balamanorama

Up

index: 4.3.130 sutra: न दण्डमाणवान्तेवासिषु


न दण्डमाणवान्तेवासिषु - न दण्ड । दण्डमाणवाश्च अन्तेवासिनश्च तेष्विति द्वन्द्वः । दाक्षा इति । दक्षस्यापत्यं दाक्षिः, तस्येमे दण्डमाणवाः, शिष्या वेत्यर्थे गोत्रत्वलक्षणो वुञ् न भवति, किंत्वौत्सर्गिकोऽणेव ।

Padamanjari

Up

index: 4.3.130 sutra: न दण्डमाणवान्तेवासिषु


दण्डप्राधाना माणवा इति । अर्थकथनमेतत् समासस्तु कर्मधारयः । सदा दण्डधारणाद्दण्डशब्दो माणवेषु वर्तते ॥