छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः

4-3-129 छन्दोगौक्थिकयाज्ञिकबह्वृचनटात् ञ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संघादयो निवृत्ताः, सामान्येन विधानम्। छन्दोगादिभ्यः शब्देभ्यो ञ्यः प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। वुञणोरपवादः। चरणाद् धर्माम्नाययोः, तत्साहचर्याद् नटशब्दादपि धर्माम्नाययोरेव भवति। छन्दोगानां धर्मो वाम्नायो वा छान्दोग्यम्। औक्थिक्यम्। याज्ञिक्यम्। बाह्वृच्यम्। नाट्यम्। अन्यत्र छान्दोगं कुलमित्यादि॥

Siddhanta Kaumudi

Up

छन्दोगानां धर्म आम्नायो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाह्वृच्यम् । नाट्यम् ।<!चरणाद्धर्माम्नाययोः !> (वार्तिकम्) ॥ इत्युक्तं तत्साहचर्यान्नटशब्दादपि तयोरेव ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः>> - छन्दोगौक्थिक । सङ्घादयो निवृत्ताः । छन्दोगादीनां चरणत्वात् धर्माम्नाययोरिति संबध्यते । छन्दोग, औक्थिक, याज्ञिक, बद्वृच, नट-एभ्यो धर्मे आम्नाये च इदंत्वेन विवक्षिते ञ्यः स्यादित्यर्थः । ननु नटस्य अचरणत्वात्तत्र धर्माम्नाययो कथमन्वय इत्याशङ्कते — चरणाद्धर्माम्नाययोरित्युक्तमिति ।यद्यपी॑ति शेषः । परिहरति-तत्साहचर्यादिति । तथापि छन्दोगादिसाहचर्यान्नटशब्दादपि धर्माम्नाययोरेव प्रत्यय इत्यर्थः ।

Padamanjari

Up

वुञणोरपवाद इति । चरणशब्देभ्यो वुञोऽपवादः, नटादौत्सर्गिकस्याणः ॥