4-3-12 श्राद्धे शरदः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट् ठञ्
शरच्छब्दाट् ठञ् प्रत्ययो भवति श्राद्धेऽभिधेये शैषिकः। ऋत्वणः ४.३.१६ अपवादः। श्राद्ध इति च कर्म गृह्यते, न श्रद्धावान् पुरुषः,अनभिधानात्। शारदिकं श्राद्धम्। शारदमन्यत्॥
ठञ् स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् ॥
<<श्राद्धे शरदः>> - श्राद्धे शरदः । ठञ् स्यादिति । शेषपूरणमिदम् । ननुकालाट्ठ॑ञित्येव सिद्धे किमर्थमिदमित्यत आह — ऋत्वण इति ।सन्धिवेसाद्यृतुनक्षत्रेभ्योऽणि॑ति वक्ष्यमाणस्येत्यर्थः । शारदिकमिति । शरदि ऋतौ भवमित्यर्थः । शरच्छब्दस्य संवत्सरवाचित्वे तु पूर्वेणैव सिद्धम् ।
श्राद्ध इति कर्म गृह्यते इति । श्रद्धास्मिन्विद्यत इति'प्रज्ञाश्रद्धार्चा' इति मत्वर्थीयोऽणः, श्रद्धया सम्पाद्यं पित्र्यं कर्म श्राद्धशब्देन उच्यत इत्यर्थः । न श्रद्धावान् पुरुषं इति । यदा स एव णः षष्ठ।ल्र्थे भवति तदा पुरुषवृत्तिः श्राद्धशब्दः । कथं पुनः शब्दसाधारण्येऽप्ययं विशेषो लभ्यते ? इत्याह - अनभिधानादिति । शारदिकं श्राद्धमिति । यद्यत्र विहितं ततत्र भवमिति भवे प्रत्यययः ॥