संघाङ्कलक्षणेष्वञ्यञिञामण्

4-3-127 सङ्घाङ्कलक्षणेषु अञ्यञिञाम् अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संघादिषु प्रत्ययार्थविशेषणेष्वञन्ताद्, यञन्ताद्, इञन्तात् च प्रातिपदिकादण् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। पूर्वस्य वुञोऽपवादः॥ घोषग्रहणमत्र कर्तव्यम्॥ तेन वैषम्याद् यथासंख्यं न भवति। अञन्तात् — बैदः संघः। बैदोऽङ्कः। बैदं लक्षणम्। बैदो घोषः। यञन्तात् — गार्गः संघः। गार्गोऽङ्कः। गार्गं लक्षणम्। गार्गो घोषः। इञन्तात् — दाक्षः संघः। दाक्षोऽङ्कः। दाक्षं लक्षणम्। दाक्षो घोषः। अङ्कलक्षणयोः को विशेषः ? लक्षणं लक्ष्यस्यैव चिह्नभूतं स्वं यथा विद्या बिदानाम् अङ्कस्तु गवादिस्थोऽपि गवादीनां स्वं न भवति। णित्करणं ङीबर्थं पुंवद्भावप्रतिषेधार्थं च। बैदी विद्यास्य बैदीविद्यः॥

Siddhanta Kaumudi

Up

।<!घोषग्रहणमपि कर्तव्यम् !> (वार्तिकम्) ॥ अञ्, बैदः सङ्घोऽङ्को घोषो वा । बैदं लक्षणम् । यञ्, गार्गः । गार्गम् । इञ्, दाक्षः । दाक्षम् । परम्परासंबन्धोऽङ्कः साक्षात्तु लक्षणम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

पूर्वस्य युञोऽपवाद इति । गोत्रग्रहणानुवृतेरजादीनां गोत्रप्रत्ययानामत्र ग्रहणमिति भावः । घोषग्रहणमत्र कर्तव्यमिति । घोषः उ आभीरस्थानम्, तत्रपि प्रत्ययो यथा स्यादित्येवमर्थम् । घोषग्रहणस्यानुषङ्गिकं प्रयोजनान्तरमाह - तेन वैषम्यादिति । अथाङ्कलक्षणयोः को विशेष इति ॥ निघण्टुअषु पर्यायतया पाठान्नास्त्येव विशेष इत्यर्थः । पृथुगुपादानसामर्थ्याद्विशेषोऽत्राश्रीयताम् ? इत्याह - लक्षणं लक्ष्यस्यैवेति । स्वमात्मीयं सम्बन्धीत्यर्थः । बेदी विद्या अस्येति । बिदानामसाधारणी या विद्या सा यस्यास्ति स बैदीविद्यः ॥