4-3-126 गोत्रचरणात् वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्
गोत्रवाचिभ्यश्चरणवाचिभ्यश्च प्रातिपदिकेभ्यो वुञ् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। अणोऽपवादः। छं तु परत्वाद् बाधते। गोत्रात् तावत् — ग्लौचुकायनकम्। औपगवकम्॥ चरणाद् धर्माम्नाययोरिष्यते॥ काठकम्। कालापकम्। मौदकम्। पैप्पलादकम्॥
औपगवकम् ।<!चरणाद्धर्माम्नाययोरिति वक्तव्यम् !> (वार्तिकम्) ॥ काठकम् ॥
वुनि प्रकृते वुञो विधानमवृद्धेषु वृद्ध्यर्थम् । वृद्धेषु वुनि वुञि च विशेषो नास्ति - तदेव रूपं स एव स्वरः, पुंवद्भावप्रतिषेधोऽपि'न कोपधायाः' इत्यभयोरस्ति ॥