द्वन्द्वाद्वुन् वैरमैथुनिकयोः

4-3-125 द्वन्द्वात् वुन् वैरमैथुनिकयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्वन्द्वसंज्ञकाद् वुन् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये, वैरमैथुनिकयोः प्रत्ययार्थविशेषणयोः। अणोऽपवादः। छं तु परत्वाद् बाधते। वैरे तावत् — बाभ्रव्यशालङ्कायनिका। काकोलूकिका। मैथुनिकायाम् — अत्रिभरद्वाजिका। कुत्सकुशिकिका। विवहनं मैथुनिका। वैरस्य नपुंसकत्वेऽप्यमी स्वभावतः स्त्रीलिङ्गाः॥ वैरे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः॥ दैवासुरम्। राक्षोऽसुरं वैरम्॥

Siddhanta Kaumudi

Up

काकोलूकिका । कुत्सिकुशिकिका ।<!वैरे देवासुरादिभ्यः प्रतिषेधः !> (वार्तिकम्) ॥ दैवासुरम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<द्वन्द्वाद्वुन् वैरमैथुनिकयोः>> - द्वन्द्वाद्वुन् । वैरे मैथुनिकायां च इदन्त्वेन विवक्षिते द्वन्द्वात्षष्ठन्ताद्वुन्स्यादित्यर्थः । काकोलूकिकेति । काकोलूकस्य वैरमित्यर्थः । वुनि स्त्रीत्वं लोकात् । कुत्सकुशिकिकेति । कुत्सकुशिकयोर्विवाह इत्यर्थः । वुनि स्त्रीत्वं लोकात् । मिथुनं — दम्पती । तस्य कर्म मैथुनिका । मनोज्ञादित्वाद्वुञ् । स्त्रीत्वं लोकात् । वैरे देवासुरेति । वार्तिकमिदम् । दैवासुरमिति । देवासुरयोर्वैरमित्यर्थः । वुनभावेऽण् । मैथुनिकायां तु देवासुरिकेत्येव ।द्वन्द्वे देवासुरे॑ति त्वपपाठः, अत्र भाष्ये वैर इत्येव वार्तिकपाठात् ।शिशुक्रन्दे॑ति सूत्रभाष्ये तुद्वन्द्वे देवासुरादिभ्यः प्रतिषेधः॑ इति पठितम्, दैवासुरम् राक्षोऽसुरमित्युदाहृतं च । देवासुराद्यधिकृत्य कृतमाख्यानमित्यर्थः । गोत्रचरणाद्वुञ् । गोत्रप्रत्ययान्ताच्छाखाध्येतृवाचिनश्च षष्ठन्तादिदमित्यर्थे वुञित्यर्थः ।प्रवराध्यायप्रसिद्धमिह गोत्र॑मित्यभिप्रेत्योदाहरति-औपगवकमिति । औपगवस्येदमित्यर्थः । वस्तुतस्तु औपगवः प्रवरसूत्रेषु न दृष्टः । ग्लौचुकायनकमिति वृत्त्यादौ उदाहृतम् । चरणादिति । चरणाद्यो वुञ्विहितः स धर्मे आम्नाये च वाच्ये भवति, नान्यत्रेत्यर्थः । काठकमिति । कठेन प्रोक्तमधीयते कठाः, तेषां धर्म आम्नायो वेत्यर्थः । आम्नायो-वेदाभ्यासः ।

Padamanjari

Up

वैरमु विरोधः, वीराणामिदमिति कृत्वा, मिथुनकर्म मैथुनिका, मनोज्ञादित्वाद् वुञ् । मिथुनमु दम्पती, कर्म उ क्रियानिष्पादनम् । बाभ्रवशालङ्कायनिकेति । वुञन्तं स्वभावतः स्त्रियां वर्तते ॥