पत्राध्वर्युपरिषदश्च

4-3-123 पत्राध्वर्युपरिषदः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम् अञ्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पत्रं वाहनम्, तद्वाचिनः प्रातिपदिकादध्वर्युपरिषच्छब्दाभ्यां चाञ् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। अणोऽपवादः॥ पत्राद् वाह्ये॥ अश्वस्येदं वहनीयमाश्वम्। औष्ट्रम्। गार्दभम्। आध्वर्यवम्। पारिषदम्॥

Siddhanta Kaumudi

Up

अञ् ।<!पत्राद्वाह्ये !> (वार्तिकम्) ॥ अश्वस्येदं वहनीयमाश्वम् । आध्वर्यवम् पारिषदम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पत्त्राध्वर्युपरिषदश्च>> - पत्राध्वर्यु । अञिति । शेषपूरणम् । पत्रादिति ।पत्राद्बाह्र एवे॑ति वक्तव्यमित्यर्थः । आआमिति । पत्रेत्यर्थग्रहणमिति भावः । आध्वर्यवं, पारिषदमिति । अध्वर्योरिदं परिषद इदमिति विग्रहः ।

Padamanjari

Up

पत्त्रेत्यर्थग्रहणमितरयोः स्वरूपग्रहणम् । व्याख्यानं चात्र शरणम् ॥