पत्रपूर्वादञ्

4-3-122 पत्रपूर्वात् अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम् रथात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पतन्ति तेनेति पत्रमश्वादिकं वाहनमुच्यते। तत्पूर्वाद् रथशब्दादञ् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। पूर्वस्य यतोऽपवादः। आश्वरथं चक्रम्। औष्ट्ररथम्। गार्दभरथम्॥

Siddhanta Kaumudi

Up

पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पत्त्रपूर्वादञ्>> - पत्रपूर्वादञ् । रथादित्येव । पत्रं वाहनमिति ।पत्रं वाहनपक्षयो॑रिति कोशः ।

Padamanjari

Up

पतन्त्यनेनेति पत्रमिति ।'दाम्नीशस' इत्यादिना ष्ट्रन् । अश्वयुक्तो रथोऽश्वरथः, षष्ठीसमासे वृत्तिस्वभावाद्यौक्तार्थावगतिः । तस्याङ्गमाश्वरथम् ॥