4-3-114 उरसः यत् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन एकदिक् तसिः
उरःशब्दाद् यत् प्रत्ययो भवति, चकारात् तसिश्च, तेनैकदिगित्येतस्मिन् विषये। अणोऽपवादः। उरसैकदिग् उरस्यः। उरस्तः॥
चात्तसिः । अणोऽपवादः । उरसा एतदिक् उरस्यः । उरस्तः ॥
<<उरसो यच्च>> - उरसो यच्च । उरसा एकदिगित्यर्थे तृतीयान्तादित्यर्थः ।