कर्मन्दकृशाश्वादिनिः

4-3-111 कर्मन्दकृशाश्वात् इनिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन प्रोक्तम् भिक्षुनटसूत्रयोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भिक्षुनटसूत्रयोरित्येव। कर्मन्दकृशाश्वशब्दाभ्यामिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये यथासंख्यं भिक्षुनटसूत्रयोरभिधेययोः। अणोऽपवादः। अत्रापि तद्विषयतार्थं छन्दोग्रहणमनुवर्त्यम्। कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः। कृशाश्विनो नटाः। भिक्षुनटसूत्रयोरित्येव — कार्मन्दम्। कार्शाश्वम्॥

Siddhanta Kaumudi

Up

भिक्षुनटसूत्रयोरित्येव । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कर्मन्दकृशाश्वादिनिः>> - कर्मन्द । कर्मन्देन प्रोक्तं भिक्षुसूत्रमित्यर्थे, कृशाओन प्रोक्तं नटसूत्रमित्यर्थे च तृतीयान्तादिनिः स्यादिति यावत् । प्रत्यये अन्त्य इकार उच्चारणार्थः । कर्मन्दशब्दादिनिः । ततोऽध्येत्रणो लुक् । एवंकृशाइआनः॑ ।

Padamanjari

Up